Saturday, September 2, 2023

MAHISHASURAMARDINI

॥महिषासुरमर्दिनी स्तोत्रम् ॥

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नंदनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 1 ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 2 ॥

अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरि शिरोमणि तुङ्गहिमलय शृङ्गनिजालय मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 3 ॥

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्ड गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।
निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 4 ॥

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 5 ॥

अयि शरणागत वैरिवधुवर वीरवराभय दायकरे
त्रिभुवनमस्तक शूलविरोधि शिरोऽधिकृतामल शूलकरे ।
दुमिदुमितामर धुन्दुभिनादम-होमुख-रीकृत तिग्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 6 ॥

अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।
शिव शिव शुम्भ निशुम्भ महाहव तर्पित भूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 7॥

धनुरनुसङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनक पिशङ्ग पृषत्कनिषङ्ग रसद्भट शृङ्ग हतावटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 8 ॥

सुरललना तत-थेयित-थेयित् कृताभिनयोदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते ।
धुधुकुट धुक्कुट धिंधिमितध्वनि धीर मृदंग निनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 9 ॥

जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते
झणझणझिञ्झिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते ।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 10 ॥

अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनी रजनी रजनी रजनी करवक्त्रवृते ।
सुनयन-विभ्रम रभ्रम रभ्रम रभ्रम रभ्रम राधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 11 ॥

सहितमहाहव मल्लम-तल्लिक मल्लित-रल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिक-भिल्लिक वर्गवृते ।
शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 12 ॥

अविरलगण्ड गलन्मदमेदुर मत्तमतङ्ग जराजपते
त्रिभुवनभुषण भूतकलानिधि रूपपयोनिधि राजसुते ।
अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 13 ॥

कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले ।
अलिकुलसङ्कुल कुवलय मण्डल मौलिमिलद्ब कुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 14 ॥

करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते ।
निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 15 ॥

कटितटपीत दुकूल-विचित्र मयुखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुर दंशुल-सन्नख चन्द्ररुचे
जितकनकाचल मौलिपदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 16 ॥

विजितसहस् रकरैक सहस् रकरैक सहस्र करैकनुते
कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 17 ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पद-मित्य-नुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥18 ॥

कनकलसत्कल सिन्धुजलैरनु षिञ्चति तेगुणरङ्गभुवम्
भजति स किं न शचीकुचकुम्भ तटीपरिरम्भ सुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 19 ॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 20 ॥

अयि मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासिरते ।
यदुचितमत्र भवत्युररी कुरुतादुरुतापमपाकुरुमे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 21 ॥

VISHNUSHASRA NAMAM


विष्णु सहस्रनामम

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1 ॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः-शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ 2 ॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ 3 ॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 4 ॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ॥ 5 ॥

यस्य-स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ 6 ॥

ओं नमो विष्णवे प्रभविष्णवे ।

श्री वैशम्पायन उवाच ।

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ 7 ॥

युधिष्ठिर उवाच ।

किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ 8 ॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्-जन्मसंसार बन्धनात् ॥ 9 ॥

श्री भीष्म उवाच ।

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ॥ 10 ॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ 11 ॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ 12 ॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ 13 ॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ 14 ॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ 15 ॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ 16 ॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥17 ॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ 18 ॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ 19 ॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ 20 ॥

अमृतांशूद्भवो बीजं शक्तिर्-देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ 21 ॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ।
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ 22 ॥


अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्र महामन्त्रस्य ॥ श्री वेदव्यासो भगवान्-ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणि रक्षोभ्य इति नेत्रम् । त्रिसामा सामगस्सामेति कवचम् । आनन्दं परब्रह्मेति योनिः। ऋतुस्सुदर्शनः काल इति दिग्बन्धः । श्री विश्वरूप इति ध्यानम् । श्रीमहाविष्णु प्रीत्यर्थे सहस्रनाम जपे विनियोगः ॥

ध्यानम् ।

क्षीरोदन्वत्-प्रदेशे शुचिमणि-विलसत्-सैकते मौक्तिकानां
मालाक्लुप्तासनस्थः स्फटिकमण-निभैर्-मौक्तिकैर्-मण्डितांगः
शुभ्रै रभ्रै रदभ्रै रुपरिविरछितैर्-मुक्तपीयुषवर्-षैः
आनन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥ 1 ॥

भूः पादौ यस्य नाभिर्-वियदसु-रनिल-श्चन्द्र सूर्यौ च नेत्रे
कर्णावाशः शिरो द्यौर्-मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुर नर खग गो भोगि गन्धर्व दैत्यैः
चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ 2 ॥

ओं नमो भगवते वसुदेवाय

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ 3 ॥

मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ 4 ॥

नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ 5 ॥

सशंख-चक्रं सकिरीट-कुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहार-वक्षस्थल-शोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ 6 ॥

छायायां पारिजातस्य हेमसिंहासनोपरि ।
आसीन-मम्बुद-श्याम-मायताक्षमलङ्कृतम् ॥ 7 ॥

चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्ण-माश्रये ॥ 8 ॥

हरिः ओं ।

विश्वं-विष्णुर्-वषट्-कारो भूतभव्यभवत्त्-प्रभुः ।
भूतकृद्-भूथभृद्-भावो भूतात्मा भूतभावनः ॥ 1 ॥

पूतात्मा परमात्मा च मुक्तानां परमागतिः ।
अव्ययः पुरुषस्साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ 2 ॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ 3 ॥

सर्व-श्शर्व-श्शिवस्स्थाणुर्भूतादि-र्निधिरव्ययः ।

सर्वः-श्शर्वः-श्शिवःस्स्थणुर्-भुतादिर्-निधिरव्य्यः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ 4 ॥

स्वयम्भूःश्शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ 5 ॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ 6 ॥

अग्राह्यश्शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिक-कुब्धाम पवित्रं मङ्गलं परम् ॥ 7 ॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ 8 ॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ 9 ॥

सुरेशःश्शरणं शर्म विश्वरेताः प्रजाभवः ।
अहस्संवत्सरो व्यालः प्रत्ययस्सर्वदर्शनः ॥ 10 ॥

अजःस्सर्वेश्वर स्सिद्ध: स्सिद्धिः स्सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ 11 ॥

वसुर् वसुमनाः सथ्यः समात्मा सम्मितस्समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ 12 ॥

रुद्रो बहुशिरा बभ्रुर्-विश्वयोनिःशुचिश्र्वाः ।
अमृतःशाश्वतस्थाणुर् वरारोहो महातपाः ॥ 13 ॥

सर्वगः स्सर्व-विद्-भानुर्-विष्वक्-सेनो जनार्दनः।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ 14 ॥

लोकाध्यक्षःस्सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्-व्यूहश्-चथुर्-दंष्ट्रश् चतुर-भुजः ॥ 15 ॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ 16 ॥

उपेन्द्रो वामनः प्राम्शुर् अमोग श्शुचिरूर्जितः ।
अतीन्द्रः-स्सङ्ग्रः-स्सर्गो धृतात्मा नियमो यमः ॥ 17 ॥

वेद्यो वैद्य:स्सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ 18 ॥

महाबुद्धिर् महाविर्यो महाशक्तिर् महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानऽमेयात्मा महाद्रिधृक् ॥ 19 ॥

महेष्वासो महीभर्ता श्रीनिवासःस्सतां‍गतिः ।
अनिरुद्धःस्सुरान्दो गोविन्दो गोविदां‍पतिः ॥ 20॥

मरीचिर्दमनो हंस:स्सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः स्सुतपाः पद्मनाभः प्रजापतिः ॥ 21

अम्रुत्युः-सर्व-दृक्-सिंहः-संधाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः श्शास्ता विश्रुतात्मा सुरारिहा ॥ 22 ॥

गुरुर्-गुरुतमो धाम सत्यस्सत्यपराक्रमः ।
निमिषोऽनिमिषः स्स्रग्वी वाचस्पतिरुदारधीः ॥ 23 ॥

अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः-स्सहस्रपात् ॥ 24 ॥

आवर्तनो निवृत्तात्मा संवृतःस्सम्प्रमर्दनः ।
अहस्संवर्तको वह्निर्-अनिलो धरणीधरः ॥ 25 ॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्-कर्ता सत्-कृतः साधुः जह्-नुर्-नारयणो नरः ॥ 26 ॥

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ 27 ॥

वृषाही वृषभो विष्णुर्-वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 28॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ 29 ॥

ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्-चंद्रांशुर्-भास्करद्युतिः ॥ 30 ॥

अमृतांशूद्भवो भानुः शशबिन्दु: स्सुरेश्वरः ।
औषधं जगतः स्सेतुः स्सत्यधर्मपराक्रमः ॥ 31 ॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्-कान्तः कामः कामप्रदः प्रभुः ॥ 32 ॥

युगादि कृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ 33 ॥

इष्टोऽविशिष्टश्शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्-कर्ता विश्वबाहुर्-महीधरः ॥ 34 ॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधि-रधिष्ठान-मप्रमत्तः प्रतिष्ठितः ॥ 35 ॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्-भानुरादिदेवः पुरन्दरः ॥ 36 ॥

अशोकस्तारणस्तारः शूरः श्शौरिर्-जनेश्वरः ।
अनुकूलः श्शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 37 ॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः श्शरीरभृत् ।
महर्-धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ 38 ॥

अतुलः श्शरभो भीमः-स्समयज्ञो हविर्-हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ 39 ॥

विक्षरो रोहितो मार्गो हेतुर् दामोदरः स्सहः ।
महीधरो महाभागो वेगवान-मिताशनः ॥ 40 ॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ 41 ॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्धिः परमस्पष्टः तुष्टः पुष्टः श्शुभेक्षणः ॥ 42 ॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः श्शक्तिमतां श्रेष्ठो धर्मो धर्म विदुत्तमः ॥ 43 ॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भःश्शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 44 ॥

ऋतुःस्सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रःस्संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 45 ॥

विस्तारः स्स्थावर स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोअनर्थो महाकोशो महाभोगो महाधनः ॥ 46 ॥

अनिर्-विण्णःस्स्थविष्ठो भूःधर्मयूपो महामखः ।
नक्षत्रनेमिर्-नक्षत्रि क्षमः क्षामस्समीहनः ॥ 47 ॥

यज्ञ इज्यो महेज्यश्च क्रतुःस्सत्रं सतां‍गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ 48 ॥

सुव्रतःस्सुमुखःस्सूक्ष्मः सुघोषःस्सुखदःस्सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्-विदारणः ॥ 49 ॥

स्वापनःस्स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ 50 ॥

धर्मगुब्-धर्मकृद् द्धर्मी सदसत् क्षर मक्षरं ।
अविज्ञाता सहस्रां‍शुर्-विधाता कृतलक्षणः ॥ 51 ॥

गभस्तिनेमिःस्सत्त्वस्थःस्सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्-गुरुः ॥ 52 ॥

उत्तरो गोपतिर्-गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ 53 ॥

सोमपो अमृतपःस्सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयःस्सत्यसन्धो दाशार्ह स्सात्त्वताम्पतिः ॥ 54 ॥

जीवो विनयिता साक्षी मुकुन्दोअमित विक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ 55 ॥

अजो महार्ह स्स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्द स्सत्यधर्मा त्रिविक्रमः ॥ 56 ॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ 57 ॥

महावराहो गोविन्दःस्सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ 58 ॥

वेधाःस्स्वाङ्गोअजितः कृष्णो दृढःस्सङ्कर्षणोअच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ 59 ॥

भगवान् भगहाऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः स्सहिष्णुर् गतिसत्तमः ॥ 60 ॥

सुधन्वा खण्डपरशुर् दारुणो द्रविणप्रदः ।
दिवःस्पृक् सर्वदृग् व्यासो वाचस्पतिरयोनिजः ॥ 61 ॥

त्रिसामा सामगःस्साम निर्वाणं भेषजं भिषक् ।
सन्न्यासकृच्छमः श्शान्तो निष्ठा शान्तिः परायणम् ॥ 62 ॥

शुभाङ्गः श्शान्तिदः स्स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर् गोप्ता वृषभाक्षो वृषप्रियः ॥ 63 ॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ 64 ॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः ॥ 65 ॥

स्वक्षः स्स्वङ्गः श्शतानन्दो नन्दिर् ज्योथिर् गणेश्वरः ।
विजितात्मा विधेयात्मा सत् कीर्ती छिन्नसंशयः ॥ 66 ॥

उदीर्ण: सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर् विशोकः शोकनाशनः ॥ 67 ॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ 68 ॥

कालनेमिनिहा वीरः श्शौरिः श्शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ 69 ॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर् विष्णुर् वीरो नतो धनञ्जयः ॥ 70 ॥

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ 71 ॥

महाक्रमो महाकर्मा महातेजा महोरगः ।
माहाक्रतुर् महायज्वा महायज्ञो महाहविः ॥ 72 ॥

स्तव्यःस्स्तवप्रियःस्स्तोत्रम् स्तुतिःस्स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ 73 ॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ 74 ॥

सद्गतिःस्सत्कृतिःस्सत्ता सद्भूतिःस्सत्परायणः ।
शूरसेनो यदुश्रेष्ठःस्सन्निवासःस्सुयामुनः ॥ 75 ॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदोऽदृप्तो दुर्धरोऽथापराजितः ॥ 76 ॥

विश्वमूर्-तिर् महा-मूर्-तिर् दीप्तमूर्ति रमूर्तिमान् ।
अनेकमूर्तिरव्यक्तःश्शतमूर्तिःश्शताननः ॥ 77 ॥

एको नैकःस्स्तवः कः किं यत्तत् पदमनुत्तमम् ।
लोकबन्धुर् लोकनाथो माधवो भक्तवत्सलः ॥ 78 ॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमःश्शून्यो घृताशीरचलश्चलः ॥ 79 ॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यःस्सत्यमेधा धराधरः ॥ 80 ॥

तेजोवृषो द्युतिधरःस्सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ 81 ॥

चतुर् मूर्तिश् चतुर् भाहुश् चतुर् वुय्हश् चतुर् गतिः ।
चतुर् भावश् चतुर् वेदविदेकपात् ॥ 82 ॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 83 ॥

शुभाङ्गो लोकसारङ्गःस्सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 84 ॥

उद्भवःस्सुन्दरःस्सुन्दो रत्ननाभःस्सुलोचनः ।
अर्को वाजसनःश्शृङ्गी जयन्तःस्सर्वविज्जयी ॥ 85 ॥

सुवर्णबिन्दुरक्षोभ्यःस्सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ 86 ॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृतांशोऽमृतवपुस्सर्वज्ञःस्सर्वतोमुखः ॥ 87 ॥

सुलभःस्सुव्रतःस्सिद्धः शत्रुजित् शत्रुतानः ।
न्यग्रोधो दुम्बरोऽश्वत्थश्चाणूरान्ध्र निषूदनः ॥ 88 ॥

सहस्रार्चिःस्सप्तजिह्वःस्सप्तैधाःस्सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ 89 ॥

अणुर् बृहत् कृशः स्थूलो गुणभृन् निर्गुणो महान् ।
अधृतः स्वधृतःस्स्वास्यः प्राग्वंशो वंशवर्धनः ॥ 90 ॥

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ 91 ॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितःस्सर्वसहो नियन्ता नियमो यमः ॥ 92 ॥

सत्त्ववान् सात्त्विकःस्सत्यस्सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥ 93 ॥

विहायसगतिर् ज्योतिः स्सुरुचिर् हुतभुग्विभुः ।
रविर्विलोचनः स्सूर्यः स्सविता रविलोचनः ॥ 94 ॥

अनन्तो हुतभुग् भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णःस्सदामर्षी लोकाधिष्ठानमद्भुतः ॥ 95 ॥

सनात् सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्स्वस्तिकृत् स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ॥ 96 ॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगःश्शब्दसहः शिशिरःश्शर्वरीकरः ॥ 97 ॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां‍वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ 98 ॥

उत्तारणो दुष् कृतिहा पुण्यो दुःस्स्वप्ननाशनः ।
वीरहा रक्षणःस्सन्तो जीवनः पर्यवस्थितः ॥ 99 ॥

अनन्तरूपोऽनन्तश्रीर् जितमन्युर् भयापहः
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ 100 ॥

अनादिर् भुर् भुवो लक्श्मीः सुवीरो रुचिरांगदः
जननो जन जन्मादिर् भीमो भीमपराक्रमः ॥ 101 ॥

आधारनिलयो धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगःस्सत्पथाचारः प्राणदः प्रणवः पणः ॥ 102 ॥

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ 103 ॥

भूर्भुवः स्स्वस्तरुस्तारः स्सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ 104 ॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञ गुह्यमन्नमन्नाद एव च ॥ 105 ॥

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ 106 ॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ 107॥
सर्वप्रहरणायुध ॐ नम इति ।

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ 108॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।

उत्तरन्यासः
भीष्म उवाच
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ 1 ॥

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात् किञ्चित्सोऽमुत्रेह च मानवः ॥ 2 ॥

वेदान्तगो स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्स्यात् शूद्रः स्सुखमवाप्नुयात् ॥ 3 ॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः ॥ 4 ॥

भक्तिमान् यःस्सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ 5 ॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ 6 ॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ 7 ॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ 8 ॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ 9 ॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ 10 ॥

न वासुदेव भक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ 11 ॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्म सुखक्षान्ति श्रीधृति स्मृतिकीर्तिभिः ॥ 12 ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ 13 ॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ 14॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ 15॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ 16 ॥

सर्वागमानामाचारः प्रथमं परिकल्प्यते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ 17 ॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ 18 ॥

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ 19 ॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ 20 ॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ 21 ॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ 22 ॥

न ते यान्ति पराभवम् ॐ नम इति ।

अर्जुन उवाच —

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्ताना मनुरक्तानां त्राता भव जनार्दन ॥ 23 ॥

श्रीभगवानुवाच —

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ 24 ॥

स्तुत एव न संशय ॐ नम इति ।

व्यास उवाच

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ 25 ॥

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।

पार्वत्युवाच —

केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ 26 ॥

ईश्वर उवाच —

श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ 27 ॥

श्रीरामनाम वरानन ॐ नम इति ।

ब्रह्मोवाच —

नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ 28 ॥

सहस्रकोटियुगधारिणे ॐ नम इति ।

ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥

सञ्जय उवाच —

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 29 ॥

श्रीभगवानुवाच —

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 30 ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ 31 ॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ 32 ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ 33 ॥

यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेस्स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥

Sri Datta Ashtakam

श्री दत्ताष्टकम् गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहम् । निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ 1 ॥ योगातीतं गुणातीतं सर्वरक्षा...