श्री दत्ताष्टकम्
गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहम् ।
निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ 1 ॥
योगातीतं गुणातीतं सर्वरक्षाकरं विभुम् ।
सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ 2 ॥
अवधूतं सदाध्यानम् औदुम्बरसुशोभितम् ।
अनघाप्रिय विभुं देवं दत्तमानन्दमाश्रये ॥ 3 ॥
निराकारं निराभासं ब्रह्मविष्णुशिवात्मकम् ।
निर्गुणं निष्कलं शान्तं दत्तमानन्दमाश्रये ॥ 4 ॥
अनसूयासुतं देवं अत्रिवंशकुलोद्भवम् ।
दिगम्बरं महातेजं दत्तमानन्दमाश्रये ॥ 5 ॥
सह्याद्रिवासिनं दत्तं आत्मज्ञानप्रदायकम् ।
अखण्डमण्डलाकारं दत्तमानन्दमाश्रये ॥ 6 ॥
पञ्चयज्ञप्रियं देवं पञ्चरूपसुशोभितम् ।
गुरुपरम्परं वन्दे दत्तमानन्दमाश्रये ॥ 7 ॥
दत्तमानन्दाष्टकं यः पठेत् सर्वविद्या जयं लभेत् ।
दत्तानुग्रहफलं प्राप्तं दत्तमानन्दमाश्रये ॥ 8 ॥
फलश्रुति
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः
सर्वसिद्धिमवाप्नोति श्रीदत्तश्शरणं मम ॥
इति श्री दत्ताष्टकं पूर्णं ॥